Competishun Header
Study Material

CBSE Sanskrit Communicative Sample Paper Class 10 2026-27 with Solutions PDF (Code 119)

By Rohit Gupta Oct 04, 2026 8 min read
CBSE Sanskrit Communicative Sample Paper Class 10 Solutions
Official CBSE Sample Paper 2026-27 · Solved by Competishun

CBSE Sanskrit Communicative Sample Paper Class 10 2026-27 with Solutions PDF (Code 119)

All 18 questions of the CBSE Class 10 Sanskrit Communicative (119) sample paper solved with answers, explanations and the marking scheme. Read online or download the free PDF.

18Questions Solved
80Theory Marks
3 HrsDuration
119Subject Code
FreePDF Download

This page has the complete CBSE sanskrit communicative sample paper class 10 2026-27 with solutions. All 18 questions of the official CBSE Class 10 Sanskrit Communicative (119) sample paper are solved below with the marking scheme.

Sanskrit Communicative (119) is a different course from Sanskrit (122). The section design looks similar, but the passages, grammar items and textbook questions are different, so make sure you practise the paper of your own course.

Read every answer below or download the full Sanskrit Communicative solutions as a free PDF.

Quick answer: The cbse sanskrit communicative sample paper class 10 for 2026-27 is available on this page as a free PDF and as question-by-question solutions below. It covers all 18 questions for 80 marks, with the answer, explanation and marking scheme for each. The question paper itself is on our CBSE Class 10 sample paper 2026-27 page.
Free Download

Download Cbse sanskrit communicative sample paper class 10 PDF

cbse sanskrit communicative sample paper class 10 2026-27 PDF first page

CBSE Class 10 Sanskrit Communicative Sample Paper 2026-27: Complete Solutions

  • All 18 questions solved, including internal choices
  • Step-wise marking scheme for every answer
  • Clear explanations in simple language
  • Free, no login, works on mobile
Download Solutions PDF Question Paper
Paper Pattern

Sanskrit Communicative Sample Paper 2026-27 Pattern: Sections and Marks

Before you check the solutions, see how the Sanskrit Communicative paper is built. CBSE has stated that there is no change in the question paper design for the 2026-27 session.

SectionQuestionsQuestion TypesMarks
क: अपठितावबोधनम्1गद्यांशः10
ख: रचनात्मकं कार्यम्2 to 4पत्रम्, चित्रवर्णनम्, संवादः15
ग: व्याकरणम्5 to 11Applied grammar25
घ: पठितावबोधनम्12 to 18Textbook-based30
Total18Duration: 3 hours80

Official source: CBSE Academic, Sample Question Papers Class X 2026-27.

How These Sanskrit Communicative Sample Paper Solutions Are Written

Each question below opens into a full solution. Here is what you will find inside every answer, and how to use it.

Answer

The correct option or the complete written answer, exactly as you should write it in the exam.

Explanation

Why the answer is correct, with the concept or steps behind it, so you can solve similar questions.

Marking Scheme

Where each mark is given, so you know which step or point the examiner looks for.

Best way to use this page: attempt the full paper first in 3 hours with a timer, then open each question here and compare your answer with the solution and the marking scheme. Questions that use a diagram, graph or map show the figure in the PDF.
General instructions of the paper

संस्कृतम् (सम्प्रेषणात्मकम्)

सामान्यनिदेशाः

1. कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे 18 प्रश्नाः सन्ति।

2. अस्मिन् प्रश्नपत्रे चत्वारः भागाः सन्ति - ‘क’ भागः : अपठितावबोधनम् (10 अङ्काः), ‘ख’ भागः : रचनात्मककार्यम् (15 अङ्काः), ‘ग’ भागः : अनुप्रयुक्तव्याकरणम् (25 अङ्काः), ‘घ’ भागः : पठितावबोधनम् (30 अङ्काः)।

3. प्रत्येकं भागम् अधिकृत्य उत्तराणि एकस्मिन् स्थाने क्रमेण लेखनीयानि।

4. उत्तरलेखनात् पूर्वं प्रश्नस्य क्रमाङ्कः अवश्यं लेखनीयः, सः च प्रश्नपत्रानुसारम् एव लेखनीयः।

5. सर्वेषां प्रश्नानाम् उत्तराणि संस्कृतेन लेखनीयानि।

6. प्रश्नानां निर्देशाः ध्यानेन अवश्यं पठनीयाः।

अवधातव्यम्

1. अङ्कयोजनायां प्रदत्तानि उत्तराणि निदर्शात्मकानि सन्ति। सन्दर्भानुसारम् अन्यानि उचितानि उत्तराणि अपि स्वीकार्याणि।

4. आंशिक-दृष्ट्या समुचितेभ्यः उत्तरेभ्यः अपि अङ्काः देयाः।

5. रचनात्मक-कार्ये वाक्यरचना प्रमुखा, न तु वाक्यसौन्दर्य-तत्त्वम्; अतः आंशिकवाक्यशुद्धये अपि अङ्काः देयाः।

‘क’ भागः • अपठितावबोधनम् (10 अङ्काः)

Sanskrit Communicative Sample Paper Solutions: 'क' खण्डः: अपठितावबोधनम् (प्रश्नः 1, 10 अङ्काः)

Q110 अङ्काःअधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत -Tap to view answer and marking scheme

श्रमस्य साहसस्य च योग्यः फलितांशः प्राप्यते। यदा भवान् मनसि लक्ष्यं चिन्तयित्वा धैर्यपूर्वकं निजकार्यं करोति तदा अवश्यमेव साफल्यं प्राप्तुं शक्नोति। अतएव कथ्यते - ‘साहसे एव श्रीः प्रतिष्ठिता।’ जीवने लाभालाभयोः विचारं विना परिश्रमः करणीयः। साहसिनः विद्यार्थिनः सदैव कर्मयोगिनः भूत्वा सम्यक्पदम् अलङ्कुर्वन्ति। साहसिनः जनाः सर्वदा सन्मार्गम् अनुसरन्ति। एते एव जनाः राष्ट्रोन्नयने समर्थाः भवन्ति। साहसः एव विपदि अस्माकं कृते उपकारकः भवति। साहसः श्रमः च द्वयोः अपि सामाञ्जस्यम् अनिवार्यम् अस्ति। केवलं भाग्यम् अनुसृत्य यदि उपविश्यते तर्हि साफल्यम् एकः स्वप्नः इव तिष्ठति। अतः आवश्यकता अस्ति यद् देशस्य भाविनः नागरिकाः छात्राः साहसिनः कर्त्तव्यनिष्ठाश्च भवेयुः।

अ. एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्) [2×1=2]

(i) जीवने कयोः विचारं विना परिश्रमः करणीयः?

उत्तरम्

लाभालाभयोः

(ii) राष्ट्रोन्नयने के जनाः समर्थाः भवन्ति?

उत्तरम्

साहसिनः

(iii) साहसे का प्रतिष्ठिता?

उत्तरम्

श्रीः

आ. पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्) [2×2=4]

(i) अधुना का आवश्यकता अस्ति?

उत्तरम्

अधुना आवश्यकता अस्ति यद् देशस्य भाविनः नागरिकाः छात्राः साहसिनः कर्त्तव्यनिष्ठाश्च भवेयुः।

(ii) के सम्यक् पदम् अलङ्कुर्वन्ति?

उत्तरम्

साहसिनः विद्यार्थिनः सदैव कर्मयोगिनः भूत्वा सम्यक्पदम् अलङ्कुर्वन्ति।

(iii) श्रमस्य साहसस्य च कीदृशः फलितांशः प्राप्यते?

उत्तरम्

श्रमस्य साहसस्य च योग्यः फलितांशः प्राप्यते।

इ. अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत। [1]

उत्तरम्

श्रमसाहसयोः महत्त्वम् - अथवा अन्यत् किमपि उचितं शीर्षकम्।

ई. यथानिर्देशम् उत्तरत - [3×1=3]

(i) ‘एते एव जनाः राष्ट्रोन्नयने समर्थाः भवन्ति।’ अत्र कर्तृपदं किम्?

(क) एते (ख) जनाः

(ग) समर्थाः (घ) भवन्ति

उत्तरम्

(ख) जनाः

(ii) ‘साहसिनः जनाः सर्वदा सन्मार्गम् अनुसरन्ति।’ अस्मिन् वाक्ये किं क्रियापदं प्रयुक्तम्?

(क) साहसिनः (ख) जनाः

(ग) सन्मार्गम् (घ) अनुसरन्ति

उत्तरम्

(घ) अनुसरन्ति

(iii) ‘जनाः’ इति विशेष्यपदस्य विशेषणपदं किम्?

(क) योग्यः (ख) उपकारकः

(ग) साहसिनः (घ) प्रतिष्ठिता

उत्तरम्

(ग) साहसिनः

अङ्कयोजना

अ - 2×1=2 | आ - 2×2=4 | इ - 1 | ई - 3×1=3 = 10 अङ्काः

अ तथा आ विभागयोः केवलं प्रश्नद्वयम् एव उत्तरणीयम्। ‘इ’ विभागे छात्रस्य उत्तरं दृष्ट्वा छात्रहिताय समुचितं मूल्याङ्कनं करणीयम्।

‘ख’ भागः • रचनात्मकं कार्यम् (15 अङ्काः)

Sanskrit Communicative Sample Paper Solutions: 'ख' खण्डः: रचनात्मकं कार्यम् (प्रश्नाः 2 to 4, 15 अङ्काः)

Q25 अङ्काःभवान् मुकेशः। संस्कृतसम्भाषणशिविरविषये स्वमित्रं प्रति लिखितं परं मञ्जूषायां प्रदत्तशब्दैः पूरयित्वा पत्रं पुनः लिखत।Tap to view answer and marking scheme

रोहिणी सेक्टर 9,

(i) __________

तिथिः __________

प्रिय मित्र मनोज !

सस्नेहं (ii) __________ ।

अत्र सर्वगतं कुशलम्। मन्ये भवान् अपि (iii) ___________ स्यात्। गतसप्ताहे अस्माकं विद्यालये संस्कृतसम्भाषणशिबिरम् (iv) _______ आसीत्। दश दिनानि यावत् वयं संस्कृतेन सम्भाषणस्य (v) _____ कृतवन्तः। एकस्याः लघुनाटिकायाः मञ्चनं (vi) ________ अकुर्म। अहं तु विदूषकस्य (vii) _______ कृतवान्। सर्वे जनाः हसित्वा वारं वारं करतलध्वनिम् अकुर्वन्। अहं तु इदानीं सर्वदा संस्कृतेन एव वदामि। मम शिक्षकः अपि (viii) __________ स्निह्यति। त्वम् अपि प्रयत्नं कुरु। नूनं यशस्वी भविष्यसि। पितरौ (ix) _______ मम प्रणामाञ्जलिं निवेदयतु।

तव (x) __________ ,

मुकेशः।

मञ्जूषा

नमस्ते, अभ्यासम्, दिल्लीतः, प्रति, कुशली,

अभिनयम्, मयि, आयोजितम्, वयम्, अभिन्नहृदयः।

उत्तरम्

रोहिणी सेक्टर 9,

(i) दिल्लीतः

तिथिः __________

प्रिय मित्र मनोज !

सस्नेहं (ii) नमस्ते ।

अत्र सर्वगतं कुशलम्। मन्ये भवान् अपि (iii) कुशली स्यात्। गतसप्ताहे अस्माकं विद्यालये संस्कृतसम्भाषणशिबिरम् (iv) आयोजितम् आसीत्। दश दिनानि यावत् वयं संस्कृतेन सम्भाषणस्य (v) अभ्यासं कृतवन्तः। एकस्याः लघुनाटिकायाः मञ्चनं (vi) वयम् अकुर्म। अहं तु विदूषकस्य (vii) अभिनयं कृतवान्। सर्वे जनाः हसित्वा वारं वारं करतलध्वनिम् अकुर्वन्। अहं तु इदानीं सर्वदा संस्कृतेन एव वदामि। मम शिक्षकः अपि (viii) मयि स्निह्यति। त्वम् अपि प्रयत्नं कुरु। नूनं यशस्वी भविष्यसि। पितरौ (ix) प्रति मम प्रणामाञ्जलिं निवेदयतु।

तव (x) अभिन्नहृदयः ,

मुकेशः।

अङ्कयोजना

प्रत्येकं रिक्तस्थानस्य कृते ½ अङ्कः × 10 = 5 अङ्काः

Q35 अङ्काःअ प्रदत्तं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया पञ्च वाक्यानि संस्कृतेन लिखत - [5×1=5]Tap to view answer and marking scheme

मञ्जूषा

सर्वोच्चन्यायालयः, मार्गदीपाः, कारयानानि, सम्मर्दः, वृक्षाः, राष्ट्रध्वजः,

अधिवक्तारः, न्यायार्थम्, अभियाचना, निर्णयः, भारतदेशस्य, जनाः।

उत्तरम्

चित्रवर्णनम्

निदर्शनरूपेण पञ्च वाक्यानि :

• एतत् भारतदेशस्य सर्वोच्चन्यायालयस्य चित्रम् अस्ति।

• भवनस्य उपरि राष्ट्रध्वजः उड्डीयते।

• मार्गे बहूनि कारयानानि चलन्ति, जनानां सम्मर्दः च दृश्यते।

• अधिवक्तारः जनाः च न्यायार्थम् अत्र आगच्छन्ति, अभियाचनां च कुर्वन्ति।

• न्यायालयः निर्णयं यच्छति; मार्गस्य पार्श्वयोः वृक्षाः मार्गदीपाः च शोभन्ते।

अङ्कयोजना

प्रतिवाक्यम् 1 अङ्कः × 5 = 5 अङ्काः (भावस्य कृते ½ अङ्कः, व्याकरणशुद्धेः कृते ½ अङ्कः)

अत्र संक्षिप्तवाक्यरचना एव अपेक्षिता; वाक्यं दीर्घं लघु वा इति न महत्त्वपूर्णम्। मञ्जूषायाः शब्दाः सहायतार्थम् एव सन्ति - तेषां प्रयोगः अनिवार्यः नास्ति, विभक्तिपरिवर्तनं कृत्वा अपि प्रयोगः कर्तुं शक्यते। छात्रः स्वमेधया अपि वाक्यानि रचयितुं शक्नोति।

अथवा

आ मञ्जूषाप्रदत्तशब्दानां साहाय्येन निम्नलिखितं विषयम् अधिकृत्य पञ्चभिः संस्कृतवाक्यैः एकम् अनुच्छेदं लिखत - “वृक्षाणां महत्त्वम्” [5×1=5]

मञ्जूषा

प्रकृतेः शोभा, पर्यावरणस्य, रक्षकाः, यच्छन्ति, प्राणवायुम्, औषधम्, काष्ठम्,

फलानि, पुष्पाणि, मेघवर्षणे, सहायकाः, छायाम्, विहगानाम्, आश्रयस्थलम्।

उत्तरम्

अनुच्छेदलेखनम्

निदर्शनरूपेण अनुच्छेदः :

• वृक्षाः प्रकृतेः शोभा सन्ति, पर्यावरणस्य रक्षकाः च।

• ते अस्मभ्यं प्राणवायुं यच्छन्ति।

• वृक्षेभ्यः फलानि पुष्पाणि औषधं काष्ठं च प्राप्यन्ते।

• ते ग्रीष्मे छायां यच्छन्ति, मेघवर्षणे च सहायकाः भवन्ति।

• वृक्षाः विहगानाम् आश्रयस्थलं सन्ति; अतः वृक्षारोपणं सर्वैः करणीयम्।

अङ्कयोजना

प्रतिवाक्यम् 1 अङ्कः × 5 = 5 अङ्काः

अयं विकल्पः सर्वेभ्यः अस्ति। मूल्याङ्कनस्य अन्ये नियमाः चित्रवर्णनस्य अनुगुणम् एव पालनीयाः।

Q45 अङ्काःअ मञ्जूषाप्रदत्तपदैः रिक्तस्थानानि पूरयित्वा अधोलिखितसंवादं पुनः लिखत - [5×1=5]Tap to view answer and marking scheme

एकदा कोऽपि अहङ्कारी विद्वान् नागरिकः नौकया नदीपारं गच्छति स्म। सः आकाशं पश्यति, नाविकं च पृच्छति -

नागरिकः - भो नाविक! नक्षत्रविद्यां जानासि किम् ?

नाविकः - (i) _____________________________________ ।

नागरिकः - (हसन्) भो मूर्ख! तव जीवनस्य चतुर्थांशः नष्टः। त्वं गणितं पठितवान् किम्?

नाविकः - (ii) _____________________________________ ।

नागरिकः - एवं वा? तर्हि तव जीवनस्य अर्धं व्यर्थं जातम्। (वृक्षपङ्क्तीः दृष्ट्वा) किं त्वं वृक्षविज्ञानं जानासि ?

नाविकः - (iii) _____________________________________ ।

नागरिकः - हा हन्त! तव जीवनस्य त्रिचतुर्थांशः भागः व्यर्थं गतः।

नाविकः - (iv) _____________________________________ ।

नागरिकः - भोः! एषा नौका तु दोलायते। अत्र जलमपि प्रविशति। किं करोमि? अहं तु तरणं न जानामि।

नाविकः - (v) _____________________________________ ।

मञ्जूषा

(i) महोदय! अहं केवलं गणनाम् एव जानामि, न तु सम्पूर्णं गणितम्।

(ii) अहं कथं वृक्षविज्ञानं जानीयाम्? अहं तु नौकां चालयित्वा स्वोदरं पूरयामि।

(iii) तरणं न जानाति भवान् ? तर्हि नूनं भवतः तु सम्पूर्णमेव जीवनमेव नष्टम्।

(iv) पश्यतु पश्यतु, प्रबलः वायुप्रकोपः उत्पन्नः। अहं तु जले कूर्दित्वा तरामि।

(v) अहं न जानामि महोदय! परम् अहं प्रतिदिनं तारकाणि दृष्ट्वा नमामि।

उत्तरम्

संवादपूर्तिः

नागरिकः - भो नाविक! नक्षत्रविद्यां जानासि किम् ?

नाविकः - (i) अहं न जानामि महोदय! परम् अहं प्रतिदिनं तारकाणि दृष्ट्वा नमामि।

नागरिकः - (हसन्) भो मूर्ख! तव जीवनस्य चतुर्थांशः नष्टः। त्वं गणितं पठितवान् किम्?

नाविकः - (ii) महोदय! अहं केवलं गणनाम् एव जानामि, न तु सम्पूर्णं गणितम्।

नागरिकः - एवं वा? तर्हि तव जीवनस्य अर्धं व्यर्थं जातम्। (वृक्षपङ्क्तीः दृष्ट्वा) किं त्वं वृक्षविज्ञानं जानासि ?

नाविकः - (iii) अहं कथं वृक्षविज्ञानं जानीयाम्? अहं तु नौकां चालयित्वा स्वोदरं पूरयामि।

नागरिकः - हा हन्त! तव जीवनस्य त्रिचतुर्थांशः भागः व्यर्थं गतः।

नाविकः - (iv) पश्यतु पश्यतु, प्रबलः वायुप्रकोपः उत्पन्नः। अहं तु जले कूर्दित्वा तरामि।

नागरिकः - भोः! एषा नौका तु दोलायते। अत्र जलमपि प्रविशति। किं करोमि? अहं तु तरणं न जानामि।

नाविकः - (v) तरणं न जानाति भवान् ? तर्हि नूनं भवतः तु सम्पूर्णमेव जीवनमेव नष्टम्।

अङ्कयोजना

प्रत्येकं रिक्तस्थानस्य कृते 1 अङ्कः × 5 = 5 अङ्काः

अथवा

आ मञ्जूषायाः सहायतया अधोलिखितां कथां पूरयित्वा पुनः लिखत - [10×½=5]

एकदा केचन शिष्याः (i) ____ कुर्वन्ति स्म। तदैव एकः गजः महता वेगेन तस्मिन् (ii) ______ आगच्छत्। गजस्य उपरि उपविष्टः (iii) ______ उच्चस्वरेण पुनः पुनः घोषयति स्म - अपसरन्तु, अपसरन्तु इति। सर्वे (iv) _______ धावितवन्तः। यथा सर्वेषु वस्तुषु (v) _______ अस्ति तथा गजे अपि अस्ति इति विचिन्त्य एकः शिष्यः तत्रैव (vi) _____। तावति काले गजः तं स्वशुण्डेन गृहीत्वा दूरे क्षिप्तवान्। शिष्याः मूर्च्छितं तं गुरुकुलम् अनयन्। (vii) ________ तं गुरुः अपृच्छत् - “वत्स! त्वम् एवं किमर्थम् अकरोः इति।” शिष्यः (viii) ________ - “गुरुवर्य! भवद्भिः एव शिक्षितम् यत् ईश्वरः सर्वेषु अस्ति, अतः अहं गजे अपि (ix) ______ मत्वा तत्र अतिष्ठम् इति।” गुरुः उक्तवान् - “वत्स! यथा गजे तथैव हस्तिपके अपि ईश्वरः इति त्वया (x) ________ न चिन्तितम् इति।”

मञ्जूषा

हस्तिपकः, लब्धसंज्ञम्, मार्गे, कथम्, अवदत्,

भिक्षाटनम्, ईश्वरम्, शिष्याः, ईश्वरः, स्थितवान्।

उत्तरम्

कथापूर्तिः

एकदा केचन शिष्याः (i) भिक्षाटनं कुर्वन्ति स्म। तदैव एकः गजः महता वेगेन तस्मिन् (ii) मार्गे आगच्छत्। गजस्य उपरि उपविष्टः (iii) हस्तिपकः उच्चस्वरेण पुनः पुनः घोषयति स्म - अपसरन्तु, अपसरन्तु इति। सर्वे (iv) शिष्याः धावितवन्तः। यथा सर्वेषु वस्तुषु (v) ईश्वरः अस्ति तथा गजे अपि अस्ति इति विचिन्त्य एकः शिष्यः तत्रैव (vi) स्थितवान्। तावति काले गजः तं स्वशुण्डेन गृहीत्वा दूरे क्षिप्तवान्। शिष्याः मूर्च्छितं तं गुरुकुलम् अनयन्। (vii) लब्धसंज्ञं तं गुरुः अपृच्छत् - “वत्स! त्वम् एवं किमर्थम् अकरोः इति।” शिष्यः (viii) अवदत् - “गुरुवर्य! भवद्भिः एव शिक्षितम् यत् ईश्वरः सर्वेषु अस्ति, अतः अहं गजे अपि (ix) ईश्वरं मत्वा तत्र अतिष्ठम् इति।” गुरुः उक्तवान् - “वत्स! यथा गजे तथैव हस्तिपके अपि ईश्वरः इति त्वया (x) कथं न चिन्तितम् इति।”

अङ्कयोजना

प्रत्येकं रिक्तस्थानस्य कृते ½ अङ्कः × 10 = 5 अङ्काः

‘ग’ भागः • अनुप्रयुक्तव्याकरणम् (25 अङ्काः)

Sanskrit Communicative Sample Paper Solutions: 'ग' खण्डः: अनुप्रयुक्तव्याकरणम् (प्रश्नाः 5 to 11, 25 अङ्काः)

Q54 अङ्काःअ अधोलिखितवाक्येषु रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत - [4×1=4]Tap to view answer and marking scheme

(i) व्ययतः वृद्धिमायाति क्षयमायाति सं + चयात्।

उत्तरम्

सञ्चयात्

(ii) पुष्पाणां समृद्धिः सुगन्धिः + च मनोहरः।

उत्तरम्

सुगन्धिश्च

(iii) विद्वांस एव लोकेऽस्मिन् चक्षुष्मन्तः प्रकीर्तिताः।

उत्तरम्

लोके + अस्मिन्

(iv) समाः द्वादश पर्जन्यस्तत् राष्ट्रं नाभिवर्षति।

उत्तरम्

पर्जन्यः + तत्

अथवा

आ अधोलिखितवाक्येषु रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत -

(i) स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते।

उत्तरम्

च + एव

(ii) अग्निः + इव दहति माम् अयं शोकः।

उत्तरम्

अग्निरिव

(iii) स विवेकः इति ईरितः।

उत्तरम्

सः + विवेकः

(iv) काकात् + अन्यः को भवितुम् अर्हति।

उत्तरम्

काकादन्यः

अङ्कयोजना

प्रत्येकं शुद्धोत्तरस्य कृते 1 अङ्कः × 4 = 4 अङ्काः

Q64 अङ्काःअधोलिखितवाक्येषु रेखाङ्कितपदानां समस्तपदं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत -Tap to view answer and marking scheme

(i) ‘यथोचितं क्रियताम्’ इति राजादेशं श्रुत्वा सर्वे कपयः अचिन्तयन्।

(क) अनतिक्रम्य यथा (ख) उचितेन सह

(ग) उचितम् अनतिक्रम्य (घ) उचितस्य योग्यम्

उत्तरम्

(ग) उचितम् अनतिक्रम्य

(ii) लोके चक्षुर्दानं दुष्करमेव।

(क) चक्षुषः दानम् (ख) चक्षुसे दानम्

(ग) चक्षुसा दानम् (घ) चक्षुसि दानम्

उत्तरम्

(क) चक्षुषः दानम्

(iii) प्रच्छन्नभाग्यस्य भार्या परद्रव्ये न आसक्ता आसीत्।

(क) नासक्ता (ख) अनासक्ता

(ग) सशक्ता (घ) अशक्ता

उत्तरम्

(ख) अनासक्ता

(iv) ततः प्रविशतः व्यासश्च नारदश्च।

(क) व्यासश्चनारदाः (ख) व्यासनारदाः

(ग) नारदाव्यासौ (घ) व्यासनारदौ

उत्तरम्

(घ) व्यासनारदौ

अङ्कयोजना

प्रत्येकं शुद्धविकल्पस्य कृते 1 अङ्कः × 4 = 4 अङ्काः

Q74 अङ्काःअधोलिखितवाक्येषु रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेभ्यः चित्वा लिखत -Tap to view answer and marking scheme

(i) ‘ईटा’ हि यस्यास्ति पुरी प्रधाना।

(क) प्रधान + तव्यत् (ख) प्रधान + टाप्

(ग) प्रधान + ङीप् (घ) प्रधान + ठक्

उत्तरम्

(ख) प्रधान + टाप्

(ii) विद्वांसः एव लोकेऽस्मिन् चक्षुस् + मतुप् प्रकीर्तिताः।

(क) चक्षुश्मान् (ख) चक्षुष्मान्

(ग) चक्षुस्मन्तः (घ) चक्षुष्मन्तः

उत्तरम्

(घ) चक्षुष्मन्तः

(iii) राज्ञः दानशील + तल् आकर्ण्य जनाः तत्र आगताः।

(क) दानशीलताम् (ख) दानशीलता

(ग) दानशीलतायै (घ) दानशीलतया

उत्तरम्

(क) दानशीलताम्

(iv) अरुणाचले अनेकानि दर्शनीयानि स्थलानि सन्ति।

(क) दृश् + टाप् (ख) दृश् + तल्

(ग) दृश् + अनीयर् (घ) दृश् + मतुप्

उत्तरम्

(ग) दृश् + अनीयर्

अङ्कयोजना

प्रत्येकं शुद्धविकल्पस्य कृते 1 अङ्कः × 4 = 4 अङ्काः

Q83 अङ्काःअ वाच्यानुसारं मञ्जूषायाः उचितपदैः रिक्तस्थानानि पूरयित्वा अधोलिखितं संवादं पुनः लिखत - [3×1=3]Tap to view answer and marking scheme

राकेशः - प्रातःकाले (i) __________ किं करोति?

राघवः - प्रातःकाले मया पाठः स्मर्यते।

राकेशः - किं भवान् भ्रमणाय न गच्छति?

राघवः - अहम् अस्वस्थः अस्मि, अतः (ii) __________ भ्रमणाय न गम्यते।

राकेशः - किं भवान् नित्यं व्यायामम् अपि करोति ?

राघवः - आम् ! मया नित्यं व्यायामः (iii) __________ ।

मञ्जूषा

क्रियते, मया, भवान्।

उत्तरम्

वाच्यम्

राकेशः - प्रातःकाले (i) भवान् किं करोति?

राघवः - प्रातःकाले मया पाठः स्मर्यते।

राकेशः - किं भवान् भ्रमणाय न गच्छति?

राघवः - अहम् अस्वस्थः अस्मि, अतः (ii) मया भ्रमणाय न गम्यते।

राकेशः - किं भवान् नित्यं व्यायामम् अपि करोति ?

राघवः - आम् ! मया नित्यं व्यायामः (iii) क्रियते ।

अथवा

आ वाच्यानुसारम् उचितपदैः रिक्तस्थानानि पूरयित्वा वाक्यानि पुनः लिखत -

(i) अहं तुभ्यं गदां शक्तिं च (दा) __________ ।

उत्तरम्

अहं तुभ्यं गदां शक्तिं च ददामि।

(ii) __________ (अस्मद्) शीतले जले तिष्ठामि।

उत्तरम्

अहं शीतले जले तिष्ठामि।

(iii) अहम् __________ (आचार्य) पृच्छामि।

उत्तरम्

अहम् आचार्यं पृच्छामि।

अङ्कयोजना

प्रत्येकं शुद्धोत्तरस्य कृते 1 अङ्कः × 3 = 3 अङ्काः

Q93 अङ्काःकालबोधकशब्दैः अधोलिखित-दिनचर्यां पूरयत -Tap to view answer and marking scheme

(i) वैदिकः मध्याह्ने _____________ (12:30) वादने पुस्तकालयं गच्छति।

उत्तरम्

सार्ध-द्वादशवादने

(ii) पृषा रात्रौ __________ (8:45) वादनपर्यन्तं गृहपाठं लिखति।

उत्तरम्

पादोन-नववादनपर्यन्तम्

(iii) अहं प्रातः __________ (5:15) वादने धावामि।

उत्तरम्

सपाद-पञ्चवादने

अङ्कयोजना

प्रत्येकं शुद्धोत्तरस्य कृते 1 अङ्कः × 3 = 3 अङ्काः

Q104 अङ्काःमञ्जूषायां प्रदत्तैः उचितैः अव्ययपदैः अधोलिखितवाक्येषु रिक्तस्थानानि पूरयत -Tap to view answer and marking scheme

(i) मेषः ______ पश्यति तत् खादति।

उत्तरम्

यत्

(ii) अग्निः ______ दहति माम् अयं शोकः।

उत्तरम्

इव

(iii) शक्रः अवदत् - ‘शतयोजनपर्यन्तं शैलानां पारं च द्रष्टुं समर्थः भव _____’।

उत्तरम्

इति

(iv) केचिद् दग्धाः, केचिद् अर्धदग्धाः केचन _______ पञ्चत्वं गताः।

उत्तरम्

च

मञ्जूषा

इति, यत्, च, इव।

अङ्कयोजना

प्रत्येकं शुद्धोत्तरस्य कृते 1 अङ्कः × 4 = 4 अङ्काः

Q113 अङ्काःअधोलिखितवाक्येषु रेखाङ्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यानि पुनः लिखत -Tap to view answer and marking scheme

(i) मनः दुर्निग्रहः चलं भवति।

(क) दुर्निग्रहम् (ख) दुर्निग्रहाः

(ग) दुर्निग्रहो (घ) दुर्निग्रहा

उत्तरम्

(क) दुर्निग्रहम्

(ii) पिता पुत्राय महत् विद्याधनं यच्छन्ति।

(क) यच्छतः (ख) यच्छामि

(ग) यच्छसि (घ) यच्छति

उत्तरम्

(घ) यच्छति

(iii) वत्स! त्वं किमर्थम् इदं दिव्यं चक्रं वाञ्छति?

(क) वाञ्छामः (ख) वाञ्छामि

(ग) वाञ्छसि (घ) वाञ्छन्ति

उत्तरम्

(ग) वाञ्छसि

अङ्कयोजना

प्रत्येकं शुद्धविकल्पस्य कृते 1 अङ्कः × 3 = 3 अङ्काः

‘घ’ भागः • पठितावबोधनम् (30 अङ्काः)

Sanskrit Communicative Sample Paper Solutions: 'घ' खण्डः: पठितावबोधनम् (प्रश्नाः 12 to 18, 30 अङ्काः)

Q125 अङ्काःअधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत -Tap to view answer and marking scheme

अथ व्रजन्तौ तौ गर्तसङ्कुले मार्गे क्रीडतः कांश्चित् बालकान् प्रेक्ष्य अवदताम् - भो भो बालकाः! कथमत्र नतोन्नते विषमे मार्गे क्रीडथ ? यदि कश्चित् गर्ते पतेत् तर्हि स विकलाङ्गो भूत्वा चिरं क्लेशम् अनुभवेत्। तच्छ्रुत्वा तेषु कश्चित् उद्दण्डः बालकः उवाच - अयि भो ! यद्येवं तर्हि कथं भवन्तौ सुपथं परित्यज्य अनेन कुपथेन गन्तुं प्रवृत्तौ ? अपि इदं श्रेयस्करम् ?

अनेन वचसा प्रतिहतान्तःकरणः प्रच्छन्नभाग्यः अचिन्तयत् - ‘किम् इदं वचनं विशेषेण माम् एव लक्ष्यीकरोति? अहो! कुमार्गम् आश्रितस्य मम कीदृशी इयं क्लेशपरम्परा। गुरूपदेशेन इव अनेन बालवचसा मम चक्षुषी समुन्मीलिते। अद्य आरभ्य पापपथं त्यज्यामि’ इति विचिन्त्य मित्रं दुष्टबुद्धिम् अवदत् - “सखे! यदि मां मित्रस्थाने परिगणयसि, तर्हि साधुजनगर्हितम् इमं पन्थानं त्यजतु भवान्।” दुष्टबुद्धिः तु तस्य सद्वचनानि तिरस्कृत्य ग्रामाभिमुखं प्राचलत्। प्रच्छन्नभाग्यः तु समुपजातविवेकः स्वगृहं प्रतिनिवृत्तः।

I. एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्) [2×½=1]

(i) प्रतिहतान्तःकरणः कः आसीत्?

उत्तरम्

प्रच्छन्नभाग्यः

(ii) समुपजातविवेकः प्रच्छन्नभाग्यः कुत्र प्रतिनिवृत्तः?

उत्तरम्

स्वगृहम्

(iii) कीदृशः बालकः उवाच?

उत्तरम्

उद्दण्डः

II. पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्) [2×1=2]

(i) समुपजातविवेकः प्रच्छन्नभाग्यः किम् अकरोत्?

उत्तरम्

समुपजातविवेकः प्रच्छन्नभाग्यः स्वगृहं प्रतिनिवृत्तः।

(ii) अथ व्रजन्तौ तौ मार्गे क्रीडतः बालकान् दृष्ट्वा किम् अवदताम्?

उत्तरम्

अथ व्रजन्तौ तौ मार्गे क्रीडतः बालकान् दृष्ट्वा अवदताम् - यदि कश्चित् गर्ते पतेत् तर्हि स विकलाङ्गो भूत्वा चिरं क्लेशम् अनुभवेत्।

(iii) प्रतिहतान्तःकरणः प्रच्छन्नभाग्यः किम् अचिन्तयत्?

उत्तरम्

प्रतिहतान्तःकरणः प्रच्छन्नभाग्यः अचिन्तयत् - ‘किम् इदं वचनं विशेषेण माम् एव लक्ष्यीकरोति? अहो! कुमार्गम् आश्रितस्य मम कीदृशी इयं क्लेशपरम्परा। गुरूपदेशेन इव अनेन बालवचसा मम चक्षुषी समुन्मीलिते।’

III. (अ) निर्देशानुसारम् उत्तरत - [2×1=2]

(i) ‘अद्य आरभ्य पापपथं त्यज्यामि।’ अत्र किं क्रियापदम् अस्ति?

उत्तरम्

त्यज्यामि

(ii) ‘दुष्टबुद्धिः तु तस्य सद्वचनानि तिरस्कृत्य ग्रामाभिमुखं प्राचलत्।’ अत्र कर्तृपदं किम्?

उत्तरम्

दुष्टबुद्धिः

अथवा

III. (आ) निर्देशानुसारम् उत्तरत -

(i) ‘दुर्वचनानि’ इत्यस्य किं पर्यायपदं गद्यांशे प्रयुक्तम्?

उत्तरम्

सद्वचनानि

(ii) ‘उद्दण्डः’ इत्यस्य विशेष्यपदं गद्यांशात् चित्वा लिखत।

उत्तरम्

बालकः

अङ्कयोजना

I - 2×½=1 | II - 2×1=2 | III - 2×1=2 = 5 अङ्काः

I तथा II विभागयोः केवलं प्रश्नद्वयम् एव उत्तरणीयम्।

Q135 अङ्काःअधोलिखितं पद्यं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत -Tap to view answer and marking scheme

शक्नोतीहैव यः सोढुं प्राक् शरीरविमोक्षणात्।

कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः॥

विद्वांस एव लोकेऽस्मिन् चक्षुष्मन्तः प्रकीर्तिताः।

अन्येषां वदने ये तु ते चक्षुर्नामनी मते॥

I. एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्) [2×½=1]

(i) नरः कीदृशं वेगं सोढुं शक्नोति?

उत्तरम्

कामक्रोधोद्भवम्

(ii) सुखी नरः कस्मात् प्राक् कामक्रोधोद्भवं वेगं सोढुं शक्नोति?

उत्तरम्

शरीरविमोक्षणात्

(iii) के एव चक्षुष्मन्तः प्रकीर्तिताः?

उत्तरम्

विद्वांसः

II. पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्) [2×1=2]

(i) कीदृशः नरः सुखी भवति?

उत्तरम्

यः शरीरविमोक्षणात् प्राक् कामक्रोधोद्भवं वेगं सोढुं शक्नोति सः सुखी नरः भवति।

(ii) के चक्षुर्नामनी मते?

उत्तरम्

अन्येषां वदने ये तु ते चक्षुर्नामनी मते।

(iii) विद्वांसः कुत्र चक्षुष्मन्तः प्रकीर्तिताः?

उत्तरम्

विद्वांस एव लोकेऽस्मिन् चक्षुष्मन्तः प्रकीर्तिताः।

III. (अ) निर्देशानुसारम् उत्तरत - [2×1=2]

(i) ‘शक्नोति इह एव यः सोढुम्।’ अत्र क्रियापदं किम्?

उत्तरम्

शक्नोति

(ii) ‘मूर्खाः’ इत्यस्य किं विलोमपदं पद्ये प्रयुक्तम्?

उत्तरम्

विद्वांसः

अथवा

III. (आ) निर्देशानुसारम् उत्तरत -

(i) ‘दुःखी’ शब्दस्य कः विलोमः प्रयुक्तः?

उत्तरम्

सुखी

(ii) ‘मुखे’ इत्यस्य पर्यायपदं लिखत।

उत्तरम्

वदने

अङ्कयोजना

I - 2×½=1 | II - 2×1=2 | III - 2×1=2 = 5 अङ्काः

I तथा II विभागयोः केवलं प्रश्नद्वयम् एव उत्तरणीयम्।

Q145 अङ्काःअधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत -Tap to view answer and marking scheme

(सभागारः। मञ्चे विद्यालयस्य प्रधानाचार्यः, प्रदेशस्य पर्यटनाधिकारी केचित् अध्यापकाः च उपविष्टाः सन्ति।)

पर्यटनाधिकारी - (ध्वनिविस्तारकयन्त्रस्य समीपम् आगत्य) प्रियच्छात्राः! अभिनन्दनं भवताम् अस्मिन् प्रदेशे। प्रसीदामि यत् भवन्तः अस्य रम्यस्य प्रदेशस्य विषये ज्ञातुम् अति उत्सुकाः। एतदर्थं स्थलानां दर्शनाय प्रबन्धः अपि वर्तते, परन्तु सम्प्रति प्रश्नोत्तरमाध्यमेन भवतां जिज्ञासां शमयितुम् इच्छामि। प्रथमं तु अहम् एव एकं प्रश्नं पृच्छामि। अस्य प्रदेशस्य नाम ‘अरुणाचलः’ कथं जातम्? अनुमीयताम्।

हिमांशुः - अहं चिन्तयामि यत् ‘अरुणः’ तु सूर्यस्य पर्यायः। अस्य प्रकाशः सर्वप्रथमम् इमं प्रदेशं स्पृशति। अतः अरुणस्य प्रदेशः अरुणाचलः।

I. एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्) [2×½=1]

(i) अरुणः कस्य पर्यायः?

उत्तरम्

सूर्यस्य

(ii) प्रधानाचार्यः कुत्र उपविष्टः आसीत्?

उत्तरम्

मञ्चे

(iii) सूर्यस्य प्रकाशः सर्वप्रथमं कं प्रदेशं स्पृशति?

उत्तरम्

अरुणाचलप्रदेशम्

II. पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्) [2×1=2]

(i) पर्यटनाधिकारी किमर्थं प्रसीदति?

उत्तरम्

पर्यटनाधिकारी प्रसीदति यतः छात्राः अस्य अरुणाचलप्रदेशस्य विषये ज्ञातुम् अति उत्सुकाः सन्ति।

(ii) पर्यटनाधिकारी केन छात्राणां जिज्ञासां शमयितुम् इच्छति?

उत्तरम्

पर्यटनाधिकारी प्रश्नोत्तरमाध्यमेन छात्राणां जिज्ञासां शमयितुम् इच्छति।

(iii) हिमांशुः किम् उत्तरं यच्छति?

उत्तरम्

हिमांशुः उत्तरति यत् ‘अरुणः’ तु सूर्यस्य पर्यायः। अस्य प्रकाशः सर्वप्रथमम् इमं प्रदेशं स्पृशति; अतः अरुणस्य प्रदेशः अरुणाचलः।

III. (अ) निर्देशानुसारम् उत्तरत - [2×1=2]

(i) ‘स्पृशति’ इति क्रियापदस्य किं कर्तृपदम्?

उत्तरम्

प्रकाशः

(ii) ‘ज्ञातुम् इच्छाम्’ इत्यर्थे किं पदं नाट्यांशे प्रयुक्तम्?

उत्तरम्

जिज्ञासाम्

अथवा

III. (आ) निर्देशानुसारम् उत्तरत -

(i) ‘रम्यस्य प्रदेशस्य’ इत्यनयोः पदयोः विशेष्यपदं किम्?

उत्तरम्

प्रदेशस्य

(ii) ‘प्रथमं तु अहम् एव एकं प्रश्नं पृच्छामि।’ अत्र क्रियापदं किम्?

उत्तरम्

पृच्छामि

अङ्कयोजना

I - 2×½=1 | II - 2×1=2 | III - 2×1=2 = 5 अङ्काः

I तथा II विभागयोः केवलं प्रश्नद्वयम् एव उत्तरणीयम्।

Q155 अङ्काःरेखाङ्कित-पदानि आधृत्य प्रश्ननिर्माणं कुरुत -Tap to view answer and marking scheme

(i) मधुरभाषिणी वाणी पुरुषं प्रह्लादयति।

उत्तरम्

कीदृशी वाणी पुरुषं प्रह्लादयति?

(ii) हंसः वर्षर्तौ तु मानसं पलायसे।

उत्तरम्

हंसः कदा / कस्मिन् तु मानसं पलायसे?

(iii) ज्वलन् मेषः अश्वशालां प्रविशति।

उत्तरम्

ज्वलन् मेषः कुत्र / कां प्रविशति?

(iv) कामस्य नाशाय इन्द्रियाणि वशे करणीयानि।

उत्तरम्

कामस्य नाशाय कानि वशे करणीयानि?

(v) राजा वैद्यान् आहूय अश्वरक्षार्थम् अपृच्छत्।

उत्तरम्

राजा कान् आहूय अश्वरक्षार्थम् अपृच्छत्?

अङ्कयोजना

प्रत्येकं शुद्धप्रश्ननिर्माणस्य कृते 1 अङ्कः × 5 = 5 अङ्काः

Q162 अङ्काःअ मञ्जूषातः समुचितपदानि चित्वा अधोलिखित-श्लोकस्य अन्वयं पूरयित्वा पुनः लिखत - [4×½=2]Tap to view answer and marking scheme

काकस्य गात्रं यदि काञ्चनस्य माणिक्यरत्नं यदि चञ्चुदेशे।

एकैकपक्षे ग्रथितं मणीनां तथापि काको न तु राजहंसः॥

अन्वयः - यदि काकस्य (i) ________ काञ्चनस्य, यदि चञ्चुदेशे (ii) ________, एकैकपक्षे मणीनाम् (iii) _________ तथापि (सः) काकः (एव) न तु (iv) _________ ।

मञ्जूषा

ग्रथितम्, गात्रम्, राजहंसः, माणिक्यरत्नम्।

उत्तरम्

अन्वयपूर्तिः

अन्वयः - यदि काकस्य (i) गात्रं काञ्चनस्य, यदि चञ्चुदेशे (ii) माणिक्यरत्नम्, एकैकपक्षे मणीनाम् (iii) ग्रथितं तथापि (सः) काकः (एव) न तु (iv) राजहंसः ।

अथवा

आ मञ्जूषायाः साहाय्येन श्लोकस्य भावार्थे रिक्तस्थानानि पूरयित्वा पुनः लिखत -

माधुर्यमक्षरव्यक्तिः पदच्छेदस्तु सुस्वरः।

धैर्यं लयसमर्थं च षडेते पाठका गुणाः॥

भावार्थः - (i) _________ वर्णोच्चारणम्, (ii) _______ स्पष्टतया उच्चारणं, पदानां पृथक्तया (iii) ____________, धैर्यम्, स्वरलयादिप्रदर्शने (आत्मविश्वासः) - एते षट् श्रेष्ठानां (iv) __________ गुणाः सन्ति।

मञ्जूषा

पाठकानाम्, अक्षराणाम्, कोमलतया, उच्चारणम्।

उत्तरम्

भावार्थपूर्तिः

भावार्थः - (i) कोमलतया वर्णोच्चारणम्, (ii) अक्षराणां स्पष्टतया उच्चारणं, पदानां पृथक्तया (iii) उच्चारणम्, धैर्यम्, स्वरलयादिप्रदर्शने (आत्मविश्वासः) - एते षट् श्रेष्ठानां (iv) पाठकानां गुणाः सन्ति।

अङ्कयोजना

प्रत्येकं रिक्तस्थानस्य कृते ½ अङ्कः × 4 = 2 अङ्काः

Q174 अङ्काःअधोलिखितवाक्येषु रेखाङ्कितपदानां प्रसङ्गानुकूलम् उचितार्थं चित्वा लिखत -Tap to view answer and marking scheme

(i) सर्वदा सर्वदाऽस्माकं सन्निधिं सन्निधिं क्रियात्।

(क) सर्वं वदति इति (ख) सर्वाधिका

(ग) सर्वं ददाति इति (घ) यदा-कदा

उत्तरम्

(ग) सर्वं ददाति इति

(ii) मेषः महानसं प्रविश्य यत् पश्यति तद् भक्षयति।

(क) हयशालाम् (ख) मन्दिरम्

(ग) यज्ञशालाम् (घ) पाकशालाम्

उत्तरम्

(घ) पाकशालाम्

(iii) आपत्काले सरांसि त्यक्त्वा दूरं व्रजसि।

(क) वदसि (ख) गच्छसि

(ग) भजसि (घ) नमसि

उत्तरम्

(ख) गच्छसि

(iv) क्रोधाद् भवति सम्मोहः।

(क) उद्विग्नता (ख) निर्धनता

(ग) एकाग्रता (घ) चञ्चलता

उत्तरम्

(क) उद्विग्नता

अङ्कयोजना

प्रत्येकं शुद्धविकल्पस्य कृते 1 अङ्कः × 4 = 4 अङ्काः

Q184 अङ्काःमञ्जूषायाः पदसहायतया रिक्तस्थानानि पूरयित्वा अधोलिखित-कथाम् उत्तरपुस्तिकायां लिखत -Tap to view answer and marking scheme

पूर्वं बोधिसत्त्वः (i) ________ राजा अभवत्। सः बाल्यकालात् एव दानशीलः वृद्धोपसेवी च आसीत्। सः नगरस्य समन्ततः दानशालाः अकारयत्। तत्र देशान्तरेभ्यः अपि (ii) __________ आगत्य दानं प्राप्य सन्तुष्टाः अभवन्। याचकानां सङ्ख्या च क्रमशः (iii) ____________ गता। एतत् दृष्ट्वा राजा चिन्तितः अभवत्। सः शरीरस्य (iv) ________ अपि दातुम् उद्यतः अभवत्। एतत् ज्ञात्वा (v) ________ शक्रः तस्य परीक्षणं कर्तुं (vi) _________ रूपं धृत्वा तस्य सम्मुखे आगच्छत्। सः च राजा स्वस्य नेत्रम् एकैकशः नेत्रद्वयमपि तस्य कृते अयच्छत्। इन्द्रः प्रीतः भूत्वा तस्मै (vii) ________ अयच्छत्। येन सः (viii) ________ पारम् अपि द्रष्टुं समर्थः स्यात्। तथा कृत्वा शक्रः अन्तर्हितः अभवत्।

मञ्जूषा

देवाधिपतिः, न्यूनताम्, अङ्गानि, पर्वतानाम्,

शिवीनाम्, जनाः, नेत्रहीनयाचकस्य, नेत्रद्वयम्।

उत्तरम्

पठितकथा-पूर्तिः

पूर्वं बोधिसत्त्वः (i) शिवीनां राजा अभवत्। सः बाल्यकालात् एव दानशीलः वृद्धोपसेवी च आसीत्। सः नगरस्य समन्ततः दानशालाः अकारयत्। तत्र देशान्तरेभ्यः अपि (ii) जनाः आगत्य दानं प्राप्य सन्तुष्टाः अभवन्। याचकानां सङ्ख्या च क्रमशः (iii) न्यूनतां गता। एतत् दृष्ट्वा राजा चिन्तितः अभवत्। सः शरीरस्य (iv) अङ्गानि अपि दातुम् उद्यतः अभवत्। एतत् ज्ञात्वा (v) देवाधिपतिः शक्रः तस्य परीक्षणं कर्तुं (vi) नेत्रहीनयाचकस्य रूपं धृत्वा तस्य सम्मुखे आगच्छत्। सः च राजा स्वस्य नेत्रम् एकैकशः नेत्रद्वयमपि तस्य कृते अयच्छत्। इन्द्रः प्रीतः भूत्वा तस्मै (vii) नेत्रद्वयम् अयच्छत्। येन सः (viii) पर्वतानां पारम् अपि द्रष्टुं समर्थः स्यात्। तथा कृत्वा शक्रः अन्तर्हितः अभवत्।

अङ्कयोजना

प्रत्येकं रिक्तस्थानस्य कृते ½ अङ्कः × 8 = 4 अङ्काः

अङ्कविभाजनम्

भागःविषयःप्रश्नाःअङ्काः
‘क’अपठितावबोधनम्110
‘ख’रचनात्मकं कार्यम्2 - 415
‘ग’अनुप्रयुक्तव्याकरणम्5 - 1125
‘घ’पठितावबोधनम्12 - 1830
योगः18 प्रश्नाः80
From the Marking Scheme

Where Students Lose Marks in Class 10 Sanskrit Communicative

Going through the marking scheme of the cbse sanskrit communicative sample paper class 10 shows a clear pattern of where marks slip away. Keep these points in mind while practising.

  • Check your course code. 119 and 122 are different papers; use the one your school follows.
  • Use words from the मञ्जूषा. Letter and dialogue questions expect the given words.
  • Revise grammar daily. 25 marks of grammar reward regular short practice.
  • Read textbook lessons aloud. It helps with reading-based questions in Section D.
After Class 10

Planning Class 11 After Your Boards?

Once your board preparation is on track, the next big decision is your stream and Class 11 preparation. Class 11 Physics, Chemistry, Maths and Biology are much deeper than Class 10, and students who start early find the jump far easier. If you are thinking about JEE or NEET, these two Competishun programmes are built for exactly this stage.

Class 10 to 11 Bridge Course

JEET SETU

A 60-day bridge course that takes you from Class 10 to Class 11 the right way, for JEE and NEET.

  • Physics, Chemistry, Maths and Biology at real exam depth
  • Try JEE and NEET level teaching before you pick a stream
  • DPPs, periodic tests and doubt solving included
Explore JEET SETU
Class 11 Full-Year Course

Pratham

Competishun's complete Class 11 JEE course, built for boards and JEE together from day one.

  • Senior faculty with 18 to 25 years' experience
  • Full Class 11 syllabus for JEE Main and Advanced
  • Regular tests with detailed analysis
Explore Pratham

FAQs on Cbse sanskrit communicative sample paper class 10

You can download it free from this page. Tap Download Solutions PDF near the top to get all 18 solved questions with the marking scheme.
Yes. The questions are from the official CBSE Class 10 Sanskrit Communicative (119) sample paper for 2026-27, and the solutions are prepared by Competishun.
The paper has 18 questions for 80 marks, and the time allowed is 3 hours.
Yes. Every answer shows the marking scheme, so you can see where each mark is given and write your answers the same way.
No. CBSE has stated that there is no change in the question paper design and assessment pattern for the 2026-27 session.
The question papers for all subjects are on our CBSE Class 10 sample paper 2026-27 page, linked on this page. Attempt the paper there first, then check your answers here.

Explore Our Courses

Our Test Series

More From Our Blog

Showing 12 of 313 blogs